श्री रामायण मन्दिरमाधवबाड़ी, बरेली · विकासनगर, देहरादून
गुरु भजन

गुर्वष्टकम्

गुर्वष्टकम्

जन्मानेकशतैः सदादरयुजा भक्त्या समाराधितो

भक्तैर्वैदिकलक्षणेन विधिना सन्तुष्ट ईशः स्वयम् ।

साक्षात् श्रीगुरुरूपमेत्य कृपया दृग्गोचरः सन् प्रभुः

तत्त्वं साधु विबोध्य तारयति तान् संसारदुःखार्णवात् ॥

शरीरं सुरूपं तथा वा कलत्रं

यशश्चारु चित्रं धनं मेरुतुल्यम् ।

मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥ १॥

कलत्रं धनं पुत्रपौत्रादि सर्वं

गृहं बान्धवाः सर्वमेतद्धि जातम् ।

मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥ २॥

षडङ्गादिवेदो मुखे शास्त्रविद्या

कवित्वादि गद्यं सुपद्यं करोति ।

मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥ ३॥

विदेशेषु मान्यः स्वदेशेषु धन्यः

सदाचारवृत्तेषु मत्तो न चान्यः ।

मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥ ४॥

क्षमामण्डले भूपभूपालवृन्दैः

सदा सेवितं यस्य पादारविन्दम् ।

मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥ ५॥

यशो मे गतं दिक्षु दानप्रतापा-

ज्जगद्वस्तु सर्वं करे यत्प्रसादात् ।

मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥ ६॥

न भोगे न योगे न वा वाजिराजौ

न कान्तामुखे नैव वित्तेषु चित्तम् ।

मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥ ७॥

अरण्ये न वा स्वस्य गेहे न कार्ये

न देहे मनो वर्तते मे त्वनर्घ्ये ।

मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥ ८॥

गुरोरष्टकं यः पठेत्पुण्यदेही

यतिर्भूपतिर्ब्रह्मचारी च गेही ।

लभेद्वाञ्छितार्थं पदं ब्रह्मसंज्ञं

गुरोरुक्तवाक्ये मनो यस्य लग्नम् ॥

स्रोत: आदि शंकराचार्य · सार्वजनिक सम्पदा