श्री रामायण मन्दिरमाधवबाड़ी, बरेली · विकासनगर, देहरादून
गुरु भजन

श्री गुरु पादुका स्तोत्रम्

श्रीगुरुपादुकास्तोत्रम्

प्रणम्य संविन्-मार्गस्था-नागमज्ञान् महागुरुन् ।

प्रायश्चित्तं प्रवक्ष्यामि सर्वतन्त्राविरोधतः ॥ १॥

प्रमाददोषजमल-प्रविलापनकारणम् ।

प्रायश्चित्तं परं सत्यं श्रीगुरोः पादुकास्मृतिः ॥ २॥

यस्य श्रीपादरजसा रञ्जते मस्तके शिवः ।

रमते सह पार्वत्या तस्य श्रीपादुकास्मृतिः ॥ ३॥

यस्मै सर्वस्वमात्मान-मप्येकवृत्तिभक्तितः ।

समर्पयति सच्छिष्यस्तस्य श्रीपादुकास्मृतिः ॥ ४॥

यस्य पादतले सिद्धाः पादाग्रे कुलपर्वताः ।

गुल्फौ नक्षत्रवृन्दानि तस्य श्रीपादुकास्मृतिः ॥ ५॥

आधारे परमाशक्तिर्-नाभिचक्रे हृदाज्ञयोः ।

योगिनीनां चतुःषष्ठि-स्तस्य श्रीपादुकास्मृतिः ॥ ६॥

शुक्लरक्तपदद्वन्द्वं मस्तके यस्य राजते ।

शाम्भवं तु तयोर्मध्ये तस्य श्रीपादुकास्मृतिः ॥ ७॥

अन्यत्सर्वं सप्रपञ्चं निष्प्रपञ्चा गुरोः स्मृतिः ।

तस्माच्छ्रीपादुकाध्यानं सर्वपापनिकृन्तनम् ॥ ८॥

पालनाद्दुरितच्छेदात् कामितार्थ-प्रपूरणात् ।

पादुका-मन्त्रशब्दार्थं विमृशन् मूर्ध्नि पूजयेत् ॥ ९॥

श्रीगुरोः पादुकास्तोत्रं प्रातरुत्थाय यः पठेत् ।

नश्यन्ति सर्वपापानि वह्निना तूलराशिवत् ॥ १०॥

काशीक्षेत्रं निवासस्तव चरणजलं जाह्नवी श्रीगुरो नः ।

साक्षाद्विश्वेश्वरो नस्तव वचनतया तारकब्रह्मबोधे ॥ ११॥

त्वच्छ्रीपादाङ्किताभूरिह भवति गयास्त्वत् प्रसङ्गः प्रयागः ।

त्वत्तोन्यत् तीर्थदेवः क्वचिदपि च वयं न प्रतीमः पृथिव्याम् ॥ १२॥

इति श्रीगुरुपादुकास्तोत्रं सम्पूर्णम् ।

स्रोत: पारम्परिक · सार्वजनिक सम्पदा